|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.16. अध्यायः 016
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
वैशम्पायनेन कुरुविजयानन्तरं हास्तिनपुरे कृष्णार्जुनविहारप्रकारवर्णनम्॥ 1 ॥ कृष्णेनार्जुनंप्रति युधिष्ठिरे स्वस्य निजनगरजिगमिषानिवेदनचोदना॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम।
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनंजयौ॥ 14-16-1(92775)
वैशम्पायन उवाच। 14-16-2x(7798)
विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ॥ 14-16-2(92776)
विजह्राते मुदा युक्तौ दिवि देवश्वराविव।
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः॥ 14-16-3(92777)
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च।
चंक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने॥ 14-16-4(92778)
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ।
प्रविश्य तां सभां रम्यां विजह्राते च भारत॥ 14-16-5(92779)
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव।
कथायोगे कथायोगे कथयामासतुः सदा॥ 14-16-6(92780)
ऋषीणां देवतानां च वंशांस्तावाहतुः सदा।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ॥ 14-16-7(92781)
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः।
निश्चयज्ञः स पार्थाय कथयामास केशवः॥ 14-16-8(92782)
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः।
कथाभिः शमयामास पार्तं शौरिर्जनार्दनः॥ 14-16-9(92783)
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः॥ 14-16-10(92784)
ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह।
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः॥ 14-16-11(92785)
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप।
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह॥ 14-16-12(92786)
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः।
भीमसेनानुभावेन यमयोश्च नरोत्तम॥ 14-16-13(92787)
धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्।
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः॥ 14-16-14(92788)
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः॥ 14-16-15(92789)
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह॥ 14-16-16(92790)
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन॥ 14-16-17(92791)
यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम॥ 14-16-18(92792)
तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव।
रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध॥ 14-16-19(92793)
कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः।
बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान्॥ 14-16-20(92794)
सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति।
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ॥ 14-16-21(92795)
उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः।
सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः॥ 14-16-22(92796)
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः।
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना॥ 14-16-23(92797)
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि।
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा॥ 14-16-24(92798)
तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्॥ 14-16-25(92799)
न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते।
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति॥ 14-16-26(92800)
सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन॥ 14-16-27(92801)
प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन।
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः॥ 14-16-28(92802)
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः।
स्थिता समुद्रवसना सशैलवनकानना॥ 14-16-29(92803)
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव।
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्॥ 14-16-30(92804)
उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः।
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ॥ 14-16-31(92805)
तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम्।
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति॥ 14-16-32(92806)
इदं शरीरं वसु यच्च मे गृहे
निवेदितं पार्थ सदा युधिष्ठिरे।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः
सदा कुरूणामधिपो महामतिः॥ 14-16-33(92807)
प्रयोजनं चापि निवासकारणे
न विद्यते मे त्वदृते नृपात्मज।
स्थिता हि पृथ्वी तव पार्थ शासने
गुरोः सुवृत्तस्य युधिष्ठिरस्य च॥ 14-16-34(92808)
इतीदमुक्तः स तदा महात्मना
जनार्दनेनामितविक्रमोऽर्जुनः।
तथेति दुःखादिव वाक्यमैरय-
ज्जनार्दनं सम्प्रतिपूज्य पार्थिव॥ ॥ 14-16-35(92809)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-16-4 शैलेषु गह्वरारण्ये पल्वलेष्विति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|